Veda Sanskrit

ईशावास्यॊपनिषद्

ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥

ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्‌।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्‌ ॥ 1 ॥

कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ 2 ॥

असुर्या नाम ते लोका अन्धेन तमसावृताः।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ 3 ॥

अने॓ज॒देकं॒ मन॑सो॒ जवी॓यो॒ नैन॑द्दे॒वा आ॓प्नुव॒न्पूर्व॒मर्ष॑त् ।
तद्धाव॑तो॒‌உन्यानत्ये॓ति॒ तिष्ठ॒त्तस्मिन्॓न॒पो मा॓त॒रिश्वा॓ दधाति ॥ 4 ॥

तदे॓जति॒ तन्नेज॑ति॒ तद्दू॒रे तद्वं॑ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ 5 ॥

यस्तु सर्वा॓णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न विहु॑गुप्सते ॥ 6 ॥

यस्मि॒न्सर्वा॓णि भू॒तान्या॒त्मैवाभू॓द्विजान॒तः ।
तत्र॒ को मोहः॒ कः शोकः॑ एक॒त्वम॑नु॒पश्य॑तः ॥ 7 ॥

स पर्य॑गाच्चु॒क्रम॑का॒यम॑प्रण॒म॑स्नावि॒रग्ं शु॒द्धमपा॓पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भू-र्या॓थातथ्य॒तो‌உर्था॒न्
व्य॑दधाच्छाश्व॒तीभ्यः॒ समा॓भ्यः ॥ 8 ॥

अ॒न्धं तमः॒ प्रवि॑शन्ति॒ ये‌உवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॓ग्ं र॒ताः ॥ 9 ॥

अ॒न्यदे॒वायुरि॒द्यया॒‌உन्यदा॓हु॒रवि॑द्यया ।
इति॑ शुशुम॒ धीरा॓णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ 10 ॥

वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया‌உमृत॑मश्नुते ॥ 11 ॥

अ॒न्धं तमः॒ प्रवि॑शन्ति॒ ये‌உसम्॓भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू॓त्याग्ं र॒ताः ॥ 12 ॥

अ॒न्यदे॒वाहुः सम्॓भ॒वाद॒न्यदा॓हु॒रसम्॓भवात् ।
इति॑ शुश्रुम॒ धीरा॓णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ 13 ॥

सम्भू॓तिं च विणा॒शं च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॓त्या॒‌உमृत॑मश्नुते ॥ 14 ॥

हि॒र॒ण्मये॓न॒ पात्रे॓ण स॒त्यस्यापि॑हितं॒ मुखम्॓ ।
तत्वं पू॓ष॒न्नपावृ॑णु स॒त्यध॓र्माय दृ॒ष्टये॓ ॥ 15 ॥

पूष॑न्नेकर्षे यम सूर्य॒ प्राजा॓पत्य॒ व्यू॓ह र॒श्मीन्
समू॓ह॒ तेजो॒ यत्ते॓ रू॒पं कल्या॓णतमं॒ तत्ते॓ पश्यामि ।
यो॒‌உसाव॒सौ पुरु॑षः॒ सो॒‌உहम॑स्मि ॥ 16 ॥

वा॒युरनि॑लम॒मृत॒मथेदं भस्मा॓न्त॒ग्ं॒ शरी॑रम् ।
ॐ 3 क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ॥ 17 ॥

अग्ने॒ नय॑ सु॒पथा॓ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒यना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्टां ते॒ नम॑उक्तिं विधेम ॥ 18 ॥

ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥

Veda Sanskrit

गणपति अथर्व षीर्षम्

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑‌உसि । त्वमे॒व के॒वलं॒ धर्ता॑‌உसि । त्वमे॒व के॒वलं॒ हर्ता॑‌உसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑‌உसि नि॒त्यम् ॥ 1 ॥
ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ 2 ॥

अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्॓ । अव॑ श्रो॒तारम्॓ । अव॑ दा॒तारम्॓ । अव॑ धा॒तारम्॓ । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता॓त् । अव॑ पु॒रस्ता॓त् । अवोत्त॒रात्ता॓त् । अव॑ द॒क्षिणात्ता॓त् । अव॑ चो॒र्ध्वात्ता॓त् । अवाध॒रात्ता॓त् । सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ 3 ॥

त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्दा‌உद्वि॑तीयो॒‌உसि । त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒‌உसि ॥ 4 ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति । सर्वं जगदिदं त्वयि लय॑मेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति । त्वं भूमिरापो‌உनलो‌உनि॑लो न॒भः । त्वं चत्वारि वा॓क्पदा॒नि ॥ 5 ॥

त्वं गु॒णत्र॑याती॒तः । त्वम् अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑‌உसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः । त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ 6 ॥

ग॒णादिं॓ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं॓ स्तदन॒न्तरम् । अनुस्वारः प॑रत॒रः । अर्धे॓न्दुल॒सितम् । तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू॓र्वरू॒पम् । अकारो मध्य॑मरू॒पम् । अनुस्वारश्चा॓न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः । सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्रीच्छ॒न्दः । श्री महागणपति॑र्देवता । ॐ गं ग॒णप॑तये नमः ॥ 7 ॥

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया॓त् ॥ 8 ॥

एकदन्॒तं च॑तुर्ह॒स्तं॒ पा॒शमं॑कुश॒धारि॑णम् । रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् । रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒कर्णकं॑ रक्त॒वास॑सम् । रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् । भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते॓ः पुरु॒षात्प॑रम् । एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ 9 ॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते‌உस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒
नमः ॥ 10 ॥

एतदथर्वशीर्षं यो‌உधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै॓र्न बा॒ध्यते । स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा॓त् प्रमु॒च्यते । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति । सायं प्रातः प्र॑युञ्जा॒नो॒ पापो‌உपा॑पो भ॒वति । धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् । यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति । सहस्रावर्तनाद्यं यं काम॑मधी॒ते । तं तमने॑न सा॒धयेत् ॥ 11 ॥

अनेन गणपतिम॑भिषि॒ञ्चति । स वा॑ग्मी भ॒वति । चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । इत्यथर्व॑णवा॒क्यम् । ब्रह्माद्या॒चर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ 12 ॥

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति । यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति । यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति । यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ 13 ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति । सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति । महाविघ्ना॓त् प्रमु॒च्यते । महादोषा॓त् प्रमु॒च्यते । महापापा॓त् प्रमु॒च्यते । महाप्रत्यवाया॓त् प्रमु॒च्यते । स सर्व॑विद्भवति स सर्व॑विद्भ॒वति । य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ 14 ॥

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै॓स्तुष्ठु॒वाग्‍ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Veda Sanskrit

नित्य सन्ध्या वन्दनं

शरीर शुद्धि
अपवित्रः पवित्रो वा सर्वावस्थां॓ गतो‌உपिवा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः ॥
पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पुण्डरीकाक्षाय नमः ।

आचमनः
ॐ आचम्य
ॐ केशवाय स्वाहा
ॐ नारायणाय स्वाहा
ॐ माधवाय स्वाहा (इति त्रिराचम्य)
ॐ गोविन्दाय नमः (पाणी मार्जयित्वा)
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः (शिरसि जलं प्रोक्ष्य)
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः (वामहस्ते जलं प्रोक्ष्य)
ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य)
ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य)
ॐ सङ्कर्षणाय नमः (अङ्गुलिभिश्चिबुकं जलं प्रोक्ष्य)
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)
ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)
ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा)
ॐ उपेन्द्राय नमः (हस्तं शिरसि निक्षिप्य)
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)
ॐ श्रीकृष्ण परब्रह्मणे नमो नमः

(एतान्युच्चार्य उप्यक्त प्रकारं कृते अङ्गानि शुद्धानि भवेयुः)

भूतोच्चाटन
उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।
दैवी गायत्री चन्दः प्राणायामे विनियोगः

(प्राणायामं कृत्वा कुम्भके इमं गायत्री मन्त्रमुच्छरेत्)

प्राणायामः
ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।
ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया॓त् ॥
ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)

सङ्कल्पः
ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभने, अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया, प्रवर्त मानस्य, अद्य ब्रह्मणः, द्वितीय परार्थे, श्वेतवराह कल्पे, वैवश्वत मन्वन्तरे, कलियुगे, प्रथम पादे, (भारत देशः – जम्बू द्वीपे, भरत वर्षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका – क्रौञ्च द्वीपे, रमणक वर्षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये), शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ, अस्मिन्, वर्तमान, व्यावहारिक, चान्द्रमान, … संवत्सरे, … अयने, … ऋते, … मासे, … पक्षे, … तिथौ, … वासरे, … शुभ नक्षत्र, शुभ योग, शुभ करण, एवङ्गुण, विशेषण, विशिष्ठायां, शुभ तिथौ, श्रीमान्, … गोत्रः, … नामधेयः, … गोत्रस्य, … नामधेयोहंः प्रातः/मध्याह्निक/सायं सन्ध्याम् उपासिष्ये ॥

मार्जनः
ॐ आपो॒हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ । तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । (तै. अर. 4-42)

(इति शिरसि मार्जयेत्)

(हस्तेन जलं गृहीत्वा)

प्रातः काल मन्त्राचमनः
सूर्य श्च, मामन्यु श्च, मन्युपतय श्च, मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑ मका॒र्षम् । मनसा वाचा॑ ह॒स्ताभ्याम् । पद्भ्या मुदरे॑ण शि॒श्ञ्चा । रात्रि॒ स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमहं मा ममृ॑त यो॒ नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा॓ ॥ (तै. अर. 10. 24)

मध्याह्न काल मन्त्राचमनः
आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒ र्ब्रह्मा॑ पू॒ता पु॑नातु॒ माम् । यदुच्छि॑ष्ट॒ मभो॓ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मा मापो॑‌உस॒ता ञ्च॑ प्रति॒ग्रह॒ग्ग्॒ स्वाहा॓ ॥ (तै. अर. परिशिष्टः 10. 30)

सायङ्काल मन्त्राचमनः
अग्नि श्च मा मन्यु श्च मन्युपतय श्च मन्यु॑कृतेभ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑ मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्या मुदरे॑ण शि॒श्ञ्चा । अह स्तद॑वलु॒म्पतु । य त्किञ्च॑ दुरि॒तं मयि॑ । इद महं मा ममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहोमि स्वा॒हा ॥ (तै. अर. 10. 24)

(इति मन्त्रेण जलं पिबेत्)

आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)

द्वितीय मार्जनः
द॒धि॒ क्रावण्णो॑ अकारिषम् । जि॒ष्णो रश्व॑स्य वा॒जि॑नः ।
सु॒रभिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥

(सूर्यपक्षे लोकयात्रा निर्वाहक इत्यर्थः)

ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ । तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ (तै. अर. 4. 42)

पुनः मार्जनः
हिर॑ण्यवर्णा॒ श्शुच॑यः पाव॒काः या सु॑जा॒तः क॒श्यपो॒ या स्विन्द्रः॑ । अ॒ग्निं या गर्भ॑न्-दधि॒रे विरू॑पा॒ स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु । या सा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् । म॒धु॒ श्चुत॒श्शुच॑यो॒ याः पा॑व॒का स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु । यासां॓ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒था भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ श्शु॒क्रास्तान॒ आप॒शग्ग् स्यो॒ना भ॑वन्तु । याः शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नु वोप॑स्पृशत॒ त्वच॑ म्मे । सर्वाग्॑म् अ॒ग्नीग्ं र॑प्सु॒षदो॑ हु॒वे वो॒ मयि॒ वर्चो॒ बल॒ मोजो॒ निध॑त्त ॥ (तै. सं. 5. 6. 1)
(मार्जनं कुर्यात्)

अघमर्षण मन्त्रः पापविमोचनं

(हस्तेन जलमादाय निश्श्वस्य वामतो निक्षितपेत्)
द्रु॒प॒दा दि॑व मुञ्चतु । द्रु॒प॒दा दि॒वे न्मु॑मुचा॒नः ।
स्वि॒न्न स्स्ना॒त्वी मला॑ दिवः । पू॒तं पवित्रे॑णे॒ वाज्य॓म् आप॑ श्शुन्दन्तु॒ मैन॑सः ॥ (तै. ब्रा. 266)

आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)
प्राणायामम्य

लघुसङ्कल्पः
पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं प्रातस्सन्ध्याङ्ग यथा कालोचित अर्घ्यप्रदानं करिष्ये ॥

प्रातः कालार्घ्य मन्त्रं
ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ 3 ॥

मध्याह्नार्घ्य मन्त्रं
ॐ ह॒ग्ं॒ सश्शु॑चि॒ष द्वसु॑रन्तरिक्ष॒स द्दोता॑ वेदि॒षदति॑थि र्दुरोण॒सत् । नृ॒ष द्व॑र॒स दृ॑त॒स द्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्-बृ॒हत् ॥ (तै. अर. 10. 4)

सायं कालार्घ्य मन्त्रं
ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥

(इत्यञ्जलित्रयं विसृजेत्)

कालातिक्रमण प्रायश्चित्तं
आचम्य…
पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं कालातिक्रम दोषपरिहारार्थं चतुर्था अर्घ्यप्रदानं करिष्ये ॥

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥
(इति जलं विसृजेत्)

सजल प्रदक्षिणं
ॐ उ॒द्यन्त॑मस्तं॒ यन्त॑ मादि॒त्य म॑भिथ्या॒य न्कु॒र्वन्-ब्रा॓ह्म॒णो वि॒द्वान् त्स॒कल॑म्-भ॒द्रम॑श्नुते॒ असावा॑दि॒त्यो ब्र॒ह्मेति॒ ॥ ब्रह्मै॒व सन्-ब्रह्मा॒प्येति॒ य ए॒वं वेद ॥ असावादित्यो ब्रह्म ॥ (तै. अर. 2. 2)

(एवम् अर्घ्यत्रयं दद्यात् कालातिक्रमणे पूर्ववत्)
(पश्चात् हस्तेन जलमादाय प्रदक्षिणं कुर्यात्)
(द्विराचम्य प्राणायाम त्रयं कृत्वा)

आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)

सन्ध्याङ्ग तर्पणं
प्रातःकाल तर्पणं
सन्ध्यां तर्पयामि, गायत्रीं तर्पयामि, ब्राह्मीं तर्पयामि, निमृजीं तर्पयामि ॥

मध्याह्न तर्पणं
सन्ध्यां तर्पयामि, सावित्रीं तर्पयामि, रौद्रीं तर्पयामि, निमृजीं तर्पयामि ॥

सायङ्काल तर्पणं
सन्ध्यां तर्पयामि, सरस्वतीं तर्पयामि, वैष्णवीं तर्पयामि, निमृजीं तर्पयामि ॥

(पुनराचमनं कुर्यात्)

गायत्री अवाहन
ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् । गायत्रं छन्दं परमात्मं॑ सरू॒पम् । सायुज्यं वि॑नियो॒ग॒म् ॥ (तै. अर. 10. 33)

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒संमि॒तम् । गा॒य॒त्रीं॓ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । यदह्ना॓त्-कुरु॑ते पा॒पं॒ तदह्ना॓त्-प्रति॒मुच्य॑ते । यद्रात्रिया॓त्-कुरु॑ते पा॒पं॒ तद्रात्रिया॓त्-प्रति॒मुच्य॑ते । सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥

ओजो॑‌உसि॒ सहो॑‌உसि॒ बल॑मसि॒ भ्राजो॑‌உसि दे॒वानां॒ धाम॒नामा॑सि॒ विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायु-रभिभूरोम् । गायत्री-मावा॑हया॒मि॒ सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छन्दर्षी-नावा॑हया॒मि॒ श्रिय-मावाह॑या॒मि॒ गायत्रिया गायत्री च्छन्दो विश्वामित्रऋषि स्सविता देवता‌உग्निर्-मुखं ब्रह्मा शिरो विष्णुर्-हृदयग्ं रुद्र-श्शिखा पृथिवी योनिः प्राणापान व्यानोदान समाना सप्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्ं शत्यक्षरा त्रिपदा॑ षट्-कु॒क्षिः॒ पञ्च-शीर्षोपनयने वि॑नियो॒गः॒ । ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (महानारायण उपनिषत्)

आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)

जपसङ्कल्पः
पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्र जपं करिष्ये ॥

करन्यासः
ॐ तथ्स॑वि॒तुः ब्रह्मात्मने अङ्गुष्टाभ्यां नमः ।
वरे॓ण्यं॒ विष्णवात्मने तर्जनीभ्यां नमः ।
भर्गो॑ दे॒वस्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धीमहि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो नः॑ ज्ञानात्मने कनिष्टिकाभ्यां नमः ।
प्रचोदया॓त् सर्वात्मने करतल करपृष्टाभ्यां नमः ।

अङ्गन्यासः
ॐ तथ्स॑वि॒तुः ब्रह्मात्मने हृदयाय नमः ।
वरे॓ण्यं॒ विष्णवात्मने शिरसे स्वाहा ।
भर्गो॑ दे॒वस्य॑ रुद्रात्मने शिखायै वषट् ।
धीमहि सत्यात्मने कवचाय हुम् ।
धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचोदया॓त् सर्वात्मने अस्त्रायफट् ।
ॐ भूर्भुव॒स्सुव॒रोमिति दिग्भन्धः ।

ध्यानम्
मुक्ताविद्रुम हेमनील धवलच्चायैर्-मुखै स्त्रीक्षणैः ।
युक्तामिन्दुनि बद्ध रत्न मकुटां तत्वार्थ वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रङ्कपालङ्गदाम् ।
शङ्खञ्चक्र मधारविन्द युगलं हस्तैर्वहन्तीं भजे ॥

चतुर्विंशति मुद्रा प्रदर्शनं
सुमुखं सम्पुटिञ्चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखञ्चैव चतुः पञ्च मुखं तथा ।
षण्मुखो‌உथो मुखं चैव व्यापकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखम् ।
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ।

चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।
इतिमुद्रा न जानाति गायत्री निष्फला भवेत् ॥

यो देव स्सविता‌உस्माकं धियो धर्मादिगोचराः ।
प्रेरयेत्तस्य यद्भर्गस्त द्वरेण्य मुपास्महे ॥

गायत्री मन्त्रं
ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया॓त् ॥

अष्टमुद्रा प्रदर्शनं
सुरभिर्-ज्ञान चक्रे च योनिः कूर्मो‌உथ पङ्कजम् ।
लिङ्गं निर्याण मुद्रा चेत्यष्ट मुद्राः प्रकीर्तिताः ॥
ॐ तत्सद्-ब्रह्मार्पणमस्तु ।

आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)

द्विः परिमुज्य ।
सकृदुप स्पृश्य ।
यत्सव्यं पाणिम् ।
पादम् ।
प्रोक्षति शिरः ।
चक्षुषी ।
नासिके ।
श्रोत्रे ।
हृदयमालभ्य ।

प्रातःकाल सूर्योपस्थानं
ॐ मि॒त्रस्य॑ च॒र्षणी॒ धृत॒ श्रवो॑ दे॒वस्य॑ सान॒ सिम् । स॒त्यं चि॒त्रश्र॑ वस्तमम् । मि॒त्रो जनान्॑ यातयति प्रजा॒नन्-मि॒त्रो दा॑धार पृथि॒वी मु॒तद्याम् । मि॒त्रः कृ॒ष्टी रनि॑मिषा॒‌உभि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम । प्रसमि॑त्त्र॒ मर्त्यो॑ अस्तु॒ प्रय॑स्वा॒ न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒नैन॒ मग्ंहो॑ अश्नो॒ त्यन्ति॑तो॒ न दू॒रात् ॥ (तै. सं. 3.4.11)

मध्याह्न सूर्योपस्थानं
ॐ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒श॑य न्न॒मृतं॒ मर्त्य॑ञ्च । हि॒रण्यये॑न सवि॒ता रथे॒ना‌உदे॒वो या॑ति॒ भुव॑ना नि॒पश्यन्॑ ॥

उद्व॒य न्तम॑स॒ स्परि॒ पश्य॑न्तो॒ ज्योति॒ रुत्त॑रम् । दे॒वन्-दे॑व॒त्रा सूर्य॒ मग॑न्म ज्योति॑ रुत्त॒मम् ॥

उदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑ य॒ सूर्य॓म् ॥ चि॒त्रं दे॒वाना॒ मुद॑गा॒ दनी॑कं॒ चक्षु॑र्-मि॒त्रस्य॒ वरु॑ण स्या॒ग्नेः । अप्रा॒ द्यावा॑ पृथि॒वी अन्त॒रि॑क्ष॒ग्ं सूर्य॑ आ॒त्मा जग॑त स्त॒स्थुष॑श्च ॥

तच्चक्षु॑र्-दे॒वहि॑तं पु॒रस्ता॓च्चु॒क्र मु॒च्चर॑त् । पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒तं जोक्च॒ सूर्यं॑ दृ॒षे ॥ य उद॑गान्मह॒तो‌உर्णवा॓ द्वि॒भ्राज॑मान स्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥

सायङ्काल सूर्योपस्थानं
ॐ इ॒मम्मे॑ वरुण शृधी॒ हव॑ म॒द्या च॑ मृडय । त्वा म॑व॒स्यु राच॑के ॥ तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ स्त दाशा॓स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑श॒ग्ं॒ समा॑न॒ आयुः॒ प्रमो॑षीः ॥

यच्चिद्धिते विशोयथा प्रदेव वरुणव्रतम् । मिनीमसिद्य विद्यवि । यत्किञ्चेदं वरुणदैव्ये जने‌உभिद्रोह म्मनुष्याश्चरामसि । अचित्ते यत्तव धर्मायुयोपि ममान स्तस्मा देनसो देवरीरिषः । कितवासो यद्रिरिपुर्नदीवि यद्वाघा सत्यमुतयन्न विद्म । सर्वाताविष्य शिधिरेवदेवा थातेस्याम वरुण प्रियासः ॥ (तै. सं. 1.1.1)

दिग्देवता नमस्कारः
(एतैर्नमस्कारं कुर्यात्)
ॐ नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।
ॐ नमः दक्षिणायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।
ॐ नमः प्रती॓च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।
ॐ नमः उदी॓च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।
ॐ नमः ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।
ॐ नमो‌உध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।
ॐ नमो‌உवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः॑ ।

मुनि नमस्कारः
नमो गङ्गा यमुनयोर्-मध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मान श्चिरञ्जीवितं व॑र्धय॒न्ति॒ नमो गङ्गा यमुनयोर्-मुनि॑भ्यश्च॒ नमो नमो गङ्गा यमुनयोर्-मुनि॑भ्यश्च॒ न॑मः ॥

सन्ध्यादेवता नमस्कारः
सन्ध्या॑यै॒ नमः॑ । सावि॑त्र्यै॒ नमः॑ । गाय॑त्र्यै॒ नमः॑ । सर॑स्वत्यै॒ नमः॑ । सर्वा॑भ्यो दे॒वता॑भ्यो॒ नमः॑ । दे॒वेभ्यो॒ नमः॑ । ऋषि॑भ्यो॒ नमः॑ । मुनि॑भ्यो॒ नमः॑ । गुरु॑भ्यो॒ नमः॑ । पितृ॑भ्यो॒ नमः॑ । कामो‌உकार्षी॓ र्नमो॒ नमः । मन्यु रकार्षी॓ र्नमो॒ नमः । पृथिव्यापस्ते॒जो वायु॑राका॒शात् नमः ॥ (तै. अर. 2.18.52)

ॐ नमो भगवते वासु॑देवा॒य । या॒ग्ं सदा॑ सर्वभूता॒नि॒ च॒राणि॑ स्थाव॒राणि॑ च । सा॒यं॒ प्रा॒त र्न॑मस्य॒न्ति॒ सा॒ मा॒ सन्ध्या॑‌உभिरक्षतु ॥

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ।
शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ॥
यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः ।
यथा‌உन्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥
नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

गायत्री उद्वासन (प्रस्थानं)
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्थ॑नि । ब्रा॒ह्मणे॓भ्यो‌உभ्य॑नु ज्ञा॒ता॒ ग॒च्चदे॑वि य॒थासु॑खम् । स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने॓ द्विजा॒ता । आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ (महानारायण उपनिषत्)

भगवन्नमस्कारः
नमो‌உस्त्वनन्ताय सहस्रमूर्तये सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्र नाम्ने पुरुषाय शाश्वते सहस्रकोटी युग धारिणे नमः ॥

भूम्याकाशाभि वन्दनं
इ॒दं द्या॑वा पृथि॒वी स॒त्यम॑स्तु॒ । पित॒र्-मातर्यदि॒ होप॑ बृ॒वेवा॓म् ।
भू॒तं दे॒वाना॑ मवमे अवो॑भिः । विद्या मे॒षं वृ॒जिनं॑ जी॒रदा॑नुम् ॥

आकाशात्-पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥
श्री केशवं प्रतिगच्छत्योन्नम इति ।

सर्ववेदेषु यत्पुण्यम् । सर्वतीर्थेषु यत्फलम् ।
तत्फलं पुरुष आप्नोति स्तुत्वादेवं जनार्धनम् ॥
स्तुत्वादेवं जनार्धन ॐ नम इति ॥
वासनाद्-वासुदेवस्य वासितं ते जयत्रयम् ।
सर्वभूत निवासो‌உसि श्रीवासुदेव नमो‌உस्तुते ॥
श्री वासुदेव नमो‌உस्तुते ॐ नम इति ।

अभिवादः (प्रवर)
चतुस्सागर पर्यन्तं गो ब्राह्मणेभ्यः शुभं भवतु । … प्रवरान्वित … गोत्रः … सूत्रः … शाखाध्यायी … अहं भो अभिवादये ॥

ईश्वरार्पणं
कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्या‌உ‌உत्मना वा प्रकृते स्स्वभावात् ।
करोमि यद्यत्-सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥
हरिः ॐ तत्सत् । तत्सर्वं श्री परमेश्वरार्पणमस्तु ।

Veda Sanskrit

मन्त्र पुष्पम्

यो॑‌உपां पुष्पं॒ वेद॑ पुष्प॑वान् प्र॒जावा॓न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पम्॓ । पुष्प॑वान् प्र॒जावा॓न् पशु॒मान् भ॑वति । य ए॒वं वेद॑ । यो‌உपामा॒यत॑नं॒ वेद॑ । आ॒यतन॑वान् भवति ।
अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो॓ग्नेरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
अ॒सौ वै तप॑न्नपा॒मायत॑नम् आ॒यत॑नवान् भवति । यो॑‌உमुष्य॒तप॑त आ॒यत॑नं वेद॑ । आ॒यत॑नवान् भवति । आपो॑ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।आ॒यत॑नवान् भवति । य एवं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यः च॒न्द्रम॑स आ॒यत॑नं वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑न॒म् । आ॒यत॑नवान् भवति । य एवं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
नक्ष्त्र॑त्राणि॒ वा अ॒पामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । यो नक्ष्त्र॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै पर्जन्यस्या॒यत॑न॒म् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
स॒ंव॒त्स॒रो वा अ॒पामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । यः सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । य एवं वेद॑ । यो॓‌உप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ।
ॐ रा॒जा॒धि॒रा॒जाय॑ प्रस॒ह्य साहिने॓ । नमो॑ व॒यं वै॓श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्॓ । का॒मे॒श्व॒रो वै॓श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒राजाय॒ नमः॑ ।
ओं॓ तद्ब्रह्म । ओं॓ तद्वायुः । ओं॓ तदात्मा ।
ओं॓ तद्सत्यम् । ओं॓ तत्सर्वम्॓ । ओं॓ तत्-पुरोर्नमः ॥
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिन्द्रस्त्वग्ं
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं॑ प्रजापतिः ।
त्वं तदाप आपो ज्योतीरसो‌உमृतं ब्रह्म भूर्भुवस्सुवरोम् ।
ईशानस्सर्व विद्यानामीश्वर स्सर्वभूतानां
ब्रह्माधिपतिर्-ब्रह्मणो‌உधिपतिर्-ब्रह्मा शिवो मे अस्तु सदा शिवोम् ।
तद्विष्नोः परमं पदग्ं सदा पश्यन्ति
सूरयः दिवीवचक्षु राततं तद्वि प्रासो
विपस्यवो जागृहान् सत्समिन्धते
तद्विष्नोर्य-त्परमं पदम् ।
ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॑क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॓त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

Sri Sri Chandi, Sri Sri Chandi Sanskrit, Veda Sanskrit

दॆवी सूक्तम्

ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॓दि॒त्यैरु॒त वि॒श्वदे॓वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॓न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥

अ॒हं सोम॑माह॒नसं॓ बिभर्म्य॒हं त्वष्टा॓रमु॒त पू॒षणं॒ भगम्॓ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ ‍3 यज॑मानाय सुन्व॒ते ॥2॥

अ॒हं राष्ट्री॓ स॒ङ्गम॑नी॒ वसू॓नां चिकि॒तुषी॓ प्रथ॒मा य॒ज्ञिया॓नाम् ।
तां मा॓ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भू~र्या॓वे॒शयन्ती॓म् ॥3॥

मया॒ सो अन्न॑मत्ति यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॓ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्त॒वो॒मान्त उप॑क्षियन्ति॒ श्रु॒धि श्रु॑तं श्रद्धि॒वं ते॓ वदामि ॥4॥

अ॒हमे॒व स्व॒यमि॒दं वदा॑मि॒ जुष्टं॓ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥5॥

अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे हन्त॒ वा उ॑ ।
अ॒हं जना॓य स॒मदं॓ कृणोम्य॒हं द्यावा॓पृथि॒वी आवि॑वेश ॥6॥

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व॒न्तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥7॥

अ॒हमे॒व वात॑ इव॒ प्रवा॓म्या॒-रभ॑माणा॒ भुव॑नानि॒ विश्वा॓ ।
प॒रो दि॒वापर॒ ए॒ना पृ॑थि॒व्यै-ताव॑ती महि॒ना सम्ब॑भूव ॥8॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Devi Sanskrit, Veda Sanskrit

श्री सूक्तम्

ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॓म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॓द-प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा दे॒वीर्जु॑षताम् ॥

कां॒ सो॓स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वलं॑तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये‌உल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥

आ॒दि॒त्यव॑र्णे तप॒सो‌உधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षो‌உथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥

उपैतु॒ मां दे॒वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तो‌உस्मि॑ राष्ट्रे॒‌உस्मिन् की॒र्तिमृ॑द्धिं द॒दादु॑ मे ॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्षीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहात् ॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॓म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

मन॑सः॒ काम॒माकूतिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्य॑स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥

आपः॑ सृ॒जन्तु॑ स्नि॒ग्दा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णाम् हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्ग॒लाम् प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्षीमन॑पगा॒मिनी॓म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्यो‌உश्वा॓न्, वि॒न्देयं॒ पुरु॑षान॒हम् ॥

ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया॓त् ॥

श्री-र्वर्च॑स्व॒-मायु॑ष्य॒-मारो॓ग्य॒मावी॑धा॒त् पव॑मानं मही॒यते॓ । धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॓वत्स॒रं दी॒र्घमायुः॑ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Devi Sanskrit, Veda Sanskrit

दुर्गा सूक्तम्

ॐ ॥ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ता‌உत्य॒ग्निः ॥

ताम॒ग्निव॑र्णां तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॓म् ।
दु॒र्गां दे॒वीग्ं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॑ नमः॑ ॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ्-स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॓ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः ॥

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धु॒न्न ना॒वा दु॑रि॒ता‌உति॑पर्-षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॓‌உस्माकं॑ बोध्यवि॒ता त॒नूना॓म् ॥

पृ॒त॒ना॒ जित॒ग्ं॒ सह॑मानमु॒ग्रम॒ग्निग्ं हु॑वेम पर॒माथ्-स॒धस्था॓त् ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ता‌உत्य॒ग्निः ॥

प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च सत्सि॑ ।
स्वाञ्चा॓‌உग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व ॥

गोभि॒र्जुष्ट॑मयुजो॒ निषि॑क्तं॒ तवें॓द्र विष्णो॒रनु॒सञ्च॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि स॒ंवसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥

ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया॓त् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Veda Sanskrit, Vishnu Sanskrit

विष्णु सूक्तम्

ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे राजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णो॓ः पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे॓स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो॓र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥

तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् । नरो यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णो॓ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ । प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्ष॒यन्ति॒ भुव॑नानि॒ विश्वा॓ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्नुवन्ति ॥

उ॒भे ते॑ विद्मा॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒त्वम् । प॒र॒मस्य॑ विथ्से । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार । त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒षग्ग् ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्तधाम॑भिः । इ॒दं विष्णु॒र्विच॑क्र॒मे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ॥ त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॓भ्यः । ततो॒ धर्मा॑णि धा॒रयन्॑ । विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॓ व्र॒तानि॑ पस्पृ॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॓ ॥

तद्विष्णो॓ः पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं स॒स्समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् । पर्या॓प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमो‌உति रा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्त्यै॒ सर्व॑मे॒व तेना॓प्नोति॒ सर्वं॑ जयति ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Veda Sanskrit, Vishnu Sanskrit

नारायण सूक्तम्

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ ॥ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं पदम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति । पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒व-मच्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः । ना॒राय॒णपरं॑ ब्र॒ह्म॒ तत्त्वं ना॑राय॒णः प॑रः । ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ कि॒ञ्चिज्जगत्स॒र्वं॒ दृ॒श्यते॓ श्रूय॒ते‌உपि॑ वा ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः । अनन्त॒मव्ययं॑ क॒विग्ं स॑मु॒द्रे‌உन्तं॑ वि॒श्वशं॑भुवम् । प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्याय॑त॒नं म॑हत् । सन्तत॑ग्ं शि॒लाभि॑स्तु॒ लम्ब॒त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्॓ स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्-वि॒श्वार्चि॑र्-वि॒श्वतो॑मुखः । सो‌உग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒-न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता । स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒मध्ये॒ वह्नि॑शिखा अ॒णीयो॓र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑-यद॑मध्य॒स्था॒द्-वि॒ध्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा॓स्वत्य॒णूप॑मा । तस्या॓ः शिखा॒या म॑ध्ये प॒रमा॓त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सो‌உक्ष॑रः पर॒मः स्व॒राट् ॥
ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॑क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया॓त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Sanskrit, Veda Sanskrit

पुरुष सूक्तम्

ॐ तच्चं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ।

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशांगु॒लम् ॥

पुरु॑ष ए॒वेदग्ं सर्वम्॓ । यद्भू॒तं यच्च॒ भव्यम्॓ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥

ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑‍श्च॒ पूरु॑षः ।
पादो॓‌உस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो॓‌உस्ये॒हा‌உ‌உभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ण्-व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥

तस्मा॓द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्-भूमि॒मथो॑ पु॒रः ॥

यत्पुरु॑षेण ह॒विषा॓ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒ंतो अ॑स्यासी॒दाज्यम्॓ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥

स॒प्तास्या॑सन्-परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्-पुरु॑षं प॒शुम् ॥

तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जंत । सा॒ध्या ऋष॑यश्च॒ ये ॥

तस्मा॓द्य॒ज्ञात्-स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् ।
प॒शूग्-स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ ये ॥

तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छंदाग्ं॑सि जज्ञिरे॒ तस्मा॓त् । यजु॒स्तस्मा॑दजायत ॥

तस्मा॒दश्वा॑ अजायंत । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॓त् । तस्मा॓ज्जा॒ता अ॑जा॒वयः॑ ॥

यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒था व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥

ब्रा॒ह्म॒णो॓‌உस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायतः ॥

च॒ंद्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥

नाभ्या॑ आसीद॒ंतरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॓त् । तथा॑ लो॒काग्म् अक॑ल्पयन् ॥

वेदा॒हमे॑तं पुरु॑षं म॒हांतम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा‌உभि॒वद॒न्॒, यदा‌உ‌உस्ते॓ ॥

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्-प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पंथा॒ अय॑नाय विद्यते ॥

य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचंते । यत्र॒ पूर्वे॑ सा॒ध्यास्संति॑ दे॒वाः ॥

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॓च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॓ ॥

वेदा॒हमे॒तं पुरु॑षं म॒हांतम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पंथा॑ विद्य॒ते‌உय॑नाय ॥

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒ंतः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानंति॒ योनिम्॓ । मरी॑चीनां प॒दमिच्छंति वे॒धसः॑ ॥

यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां॓ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥

रुचं॑ ब्रा॒ह्मं ज॒नय॑ंतः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॓ह्म॒णो वि॒द्यात् । तस्य॒ दे॒वा अस॒न् वशे॓ ॥

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॓ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॓ ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥

तच्चं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ।

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥