विश्वा अधि श्रियोऽधित॥१॥
ज्योतिषा बाधते तमः॥२॥
अपेदु हासते तमः॥३॥
वृक्षे न वसतिं वयः॥४॥
नि श्येनासश्चिदर्थिनः॥५॥
अथा नः सुतरा भव॥६॥
उष ऋणेव यातय॥७॥
रात्रि स्तोमं न जिग्युषे॥८॥
Most important Stotras in Hindu tradition
ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॓दि॒त्यैरु॒त वि॒श्वदे॓वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॓न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥
अ॒हं सोम॑माह॒नसं॓ बिभर्म्य॒हं त्वष्टा॓रमु॒त पू॒षणं॒ भगम्॓ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ 3 यज॑मानाय सुन्व॒ते ॥2॥
अ॒हं राष्ट्री॓ स॒ङ्गम॑नी॒ वसू॓नां चिकि॒तुषी॓ प्रथ॒मा य॒ज्ञिया॓नाम् ।
तां मा॓ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भू~र्या॓वे॒शयन्ती॓म् ॥3॥
मया॒ सो अन्न॑मत्ति यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॓ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्त॒वो॒मान्त उप॑क्षियन्ति॒ श्रु॒धि श्रु॑तं श्रद्धि॒वं ते॓ वदामि ॥4॥
अ॒हमे॒व स्व॒यमि॒दं वदा॑मि॒ जुष्टं॓ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥5॥
अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे हन्त॒ वा उ॑ ।
अ॒हं जना॓य स॒मदं॓ कृणोम्य॒हं द्यावा॓पृथि॒वी आवि॑वेश ॥6॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व॒न्तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥7॥
अ॒हमे॒व वात॑ इव॒ प्रवा॓म्या॒-रभ॑माणा॒ भुव॑नानि॒ विश्वा॓ ।
प॒रो दि॒वापर॒ ए॒ना पृ॑थि॒व्यै-ताव॑ती महि॒ना सम्ब॑भूव ॥8॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ 14 ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥
नमस्तेஉस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ 17 ॥
दक्षिणेஉवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ 22 ॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ 23 ॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ 25 ॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ 33 ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ 35 ॥
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ॥ 42 ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ 45 ॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ 49 ॥
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ।
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ 51 ॥
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।
यशसा वर्धते सोஉपि कीर्तिमण्डितभूतले ॥ 53 ॥
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ 54 ॥
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥
॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥
ध्यानं
ॐ बन्धूक कुसुमाभासां पञ्चमुण्डाधिवासिनीं।
स्फुरच्चन्द्रकलारत्न मुकुटां मुण्डमालिनीं॥
त्रिनेत्रां रक्त वसनां पीनोन्नत घटस्तनीं।
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात्॥
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानितां।
अथवा
या चण्डी मधुकैटभादि दैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षन चण्डमुण्डमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धि दात्री परा
सा देवी नव कोटि मूर्ति सहिता मां पातु विश्वेश्वरी॥
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच
ॐ जयत्वं देवि चामुण्डे जय भूतापहारिणि।
जय सर्व गते देवि काल रात्रि नमोஉस्तुते ॥1॥
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोஉस्तुते ||2||
मधुकैठभविद्रावि विधात्रु वरदे नमः
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥3॥
महिषासुर निर्नाशि भक्तानां सुखदे नमः।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥4॥
धूम्रनेत्र वधे देवि धर्म कामार्थ दायिनि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥5॥
रक्त बीज वधे देवि चण्ड मुण्ड विनाशिनि ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥6॥
निशुम्भशुम्भ निर्नाशि त्रैलोक्य शुभदे नमः
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥7॥
वन्दि ताङ्घ्रियुगे देवि सर्वसौभाग्य दायिनि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥8॥
अचिन्त्य रूप चरिते सर्व शतृ विनाशिनि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥9॥
नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥10॥
स्तुवद्भ्योभक्तिपूर्वं त्वां चण्डिके व्याधि नाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥11॥
चण्डिके सततं युद्धे जयन्ती पापनाशिनि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥12॥
देहि सौभाग्यमारोग्यं देहि देवी परं सुखं।
रूपं धेहि जयं देहि यशो धेहि द्विषो जहि ॥13॥
विधेहि देवि कल्याणं विधेहि विपुलां श्रियं।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥14॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥15॥
सुरासुरशिरो रत्न निघृष्टचरणेஉम्बिके।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥16॥
विध्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥17॥
देवि प्रचण्ड दोर्दण्ड दैत्य दर्प निषूदिनि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥18॥
प्रचण्ड दैत्यदर्पघ्ने चण्डिके प्रणतायमे।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥19॥
चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥20॥
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥21॥
हिमाचलसुतानाथसंस्तुते परमेश्वरि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥22॥
इन्द्राणी पतिसद्भाव पूजिते परमेश्वरि।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥23॥
देवि भक्तजनोद्दाम दत्तानन्दोदयेஉम्बिके।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥24॥
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीं।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥25॥
तारिणीं दुर्ग संसार सागर स्याचलोद्बवे।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥26॥
इदंस्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः।
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभं ॥27॥
॥ इति श्री अर्गला स्तोत्रं समाप्तम् ॥
ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच
ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥1॥
सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् ।
सोஉपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥2॥
सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥3॥
न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ।
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥4॥
समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ।
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ॥5॥
स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ॥6॥
सोपिஉक्षेम मवाप्नोति सर्व मेव न संशयः ।
कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥6॥
ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम्। ॥8॥
यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ।
स सिद्धः स गणः सोஉथ गन्धर्वो जायते ध्रुवम् ॥9॥
न चैवा पाटवं तस्य भयं क्वापि न जायते ।
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात् ॥10॥
ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पूर्नम् इदं प्रारभ्यते बुधैः ॥11॥
सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ॥12॥
शनैस्तु जप्यमानेஉस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ॥13॥
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ।
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ॥14॥
चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥15॥
अग्रतोஉमुं महादेव कृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥16॥
॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥
रचन: ऋषि मार्कण्डेय
॥ देवी माहात्म्यम् ॥
॥ श्रीदुर्गायै नमः ॥
॥ अथ श्रीदुर्गासप्तशती ॥
॥ मधुकैटभवधो नाम प्रथमोஉध्यायः ॥
अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्त दन्तिका बीजम् । अग्निस्तत्वम् । ऋग्वेदः स्वरूपम् । श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः ।
ध्यानं
खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् ।
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां॥
ॐ नमश्चण्डिकायै
ॐ ऐं मार्कण्डेय उवाच ॥1॥
सावर्णिः सूर्यतनयो योमनुः कथ्यतेஉष्टमः।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥2॥
महामायानुभावेन यथा मन्वन्तराधिपः
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥3॥
स्वारोचिषेஉन्तरे पूर्वं चैत्रवंशसमुद्भवः।
सुरथो नाम राजाஉभूत् समस्ते क्षितिमण्डले ॥4॥
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥5॥
तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥6॥
ततः स्वपुरमायातो निजदेशाधिपोஉभवत्।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥7॥
अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥8॥
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥9॥
सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः।
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥10॥
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥11॥
सोஉचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः। ॥12॥
मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत्
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ॥13॥
न जाने स प्रधानो मे शूर हस्तीसदामदः
मम वैरिवशं यातः कान्भोगानुपलप्स्यते ॥14॥
ये ममानुगता नित्यं प्रसादधनभोजनैः
अनुवृत्तिं ध्रुवं तेஉद्य कुर्वन्त्यन्यमहीभृतां ॥15॥
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं
सञ्चितः सोஉतिदुःखेन क्षयं कोशो गमिष्यति ॥16॥
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ॥17॥
स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेஉत्र कः
सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे। ॥18॥
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम्
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥19॥
वैश्य उवाच ॥20॥
समाधिर्नाम वैश्योஉहमुत्पन्नो धनिनां कुले
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः ॥21॥
विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्।
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥22॥
सोஉहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्।
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ॥23॥
किं नु तेषां गृहे क्षेमम् अक्षेमं किंनु साम्प्रतं
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः ॥24॥
राजोवाच ॥25॥
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ॥26॥
तेषु किं भवतः स्नेह मनुबध्नाति मानसम् ॥27॥
वैश्य उवाच ॥28॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः
किं करोमि न बध्नाति मम निष्टुरतां मनः ॥29॥
ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः। ॥30॥
किमेतन्नाभिजानामि जानन्नपि महामते
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु ॥31॥
तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते ॥32॥
अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥33॥
माकण्डेय उवाच ॥34॥
ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ ॥35॥
समाधिर्नाम वैश्योஉसौ स च पार्धिव सत्तमः ॥36॥
कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्।
उपविष्टौ कथाः काश्चित्च्चक्रतुर्वैश्यपार्धिवौ ॥37॥
राजोउवाच ॥38॥
भगव्ंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ॥39॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ॥40॥
मआनतोஉपि यथाज्ञस्य किमेतन्मुनिसत्तमः ॥41॥
अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः
स्वजनेन च सन्त्यक्तः स्तेषु हार्दी तथाप्यति ॥42॥
एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ।
दृष्टदोषेஉपि विषये ममत्वाकृष्टमानसौ ॥43॥
तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥44॥
ऋषिरुवाच ॥45॥
ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे।
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक् ॥46॥
केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ॥47॥
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्।
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ॥48॥
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ॥49॥
ज्ञानेஉपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ॥50॥
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ॥51॥
तथापि ममतावर्ते मोहगर्ते निपातिताः
महामाया प्रभावेण संसारस्थितिकारिणा ॥52॥
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः।
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ॥53॥
ज्ङानिनामपि चेतांसि देवी भगवती हि सा
बलादाक्ष्यमोहाय महामाया प्रयच्छति ॥54॥
तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥55॥
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥56॥
राजोवाच ॥57॥
भगवन् काहि सा देवी मामायेति यां भवान् ।
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥58॥
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥59॥
ऋषिरुवाच ॥60॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥61॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः ॥62॥
देवानां कार्यसिद्ध्यर्थम् आविर्भवति सा यदा।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥63॥
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥64॥
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥65॥
स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ॥66॥
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः
विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् ॥67॥
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥68॥
ब्रह्मोवाच ॥69॥
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥70॥
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः
त्वमेव सा त्वं सावित्री त्वं देव जननी परा ॥71॥
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्।
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥72॥
विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने।
तथा संहृतिरूपान्ते जगतोஉस्य जगन्मये ॥73॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी ॥74॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥75॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा।
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च ॥76॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा ॥77॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी
परापराणां परमा त्वमेव परमेश्वरी ॥78॥
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया ॥79॥
यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्।
सोஉपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥80॥
विष्णुः शरीरग्रहणम् अहमीशान एव च
कारितास्ते यतोஉतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥81॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥82॥
प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ॥83॥
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥83॥
ऋषिरुवाच ॥84॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ ॥85॥
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः।
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ॥86॥
उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः।
एकार्णवे अहिशयनात्ततः स ददृशे च तौ ॥87॥
मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ॥88॥
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः ॥89॥
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥90॥
उक्तवन्तौ वरोஉस्मत्तो व्रियतामिति केशवम् ॥91॥
श्री भगवानुवाच ॥92॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥93॥
किमन्येन वरेणात्र एतावृद्दि वृतं मम ॥94॥
ऋषिरुवाच ॥95॥
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्।
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ॥96॥
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता। ॥97॥
ऋषिरुवाच ॥98॥
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥99॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥100॥
॥ जय जय श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमोஉध्यायः ॥
आहुति
ॐ एं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ॥
महिषासुर सैन्यवधो नाम द्वितीयोஉध्यायः ॥
अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छन्दः । श्रीमहालक्ष्मीदेवता। शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥
ध्यानं
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥
ऋषिरुवाच ॥1॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषेஉसुराणाम् अधिपे देवानाञ्च पुरन्दरे
तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं।
जित्वा च सकलान् देवान् इन्द्रोஉभून्महिषासुरः ॥3॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ॥4॥
यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥5॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ॥6॥
स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥6॥
एतद्वः कथितं सर्वम् अमरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥8॥
इत्थं निशम्य देवानां वचांसि मधुसूधनः
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥9॥
ततोஉतिकोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥10॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ॥11॥
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥12॥
अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥13॥
यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥14॥
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥15॥
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योஉर्क तेजसा।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥16॥
तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥17॥
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च
अन्येषां चैव देवानां सम्भवस्तेजसां शिव ॥18॥
ततः समस्त देवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ॥19॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥20॥
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥21॥
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥22॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ॥23॥
समस्तरोमकूपेषु निज रश्मीन् दिवाकरः
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ॥24॥
क्षीरोदश्चामलं हारम् अजरे च तथाम्बरे
चूडामणिं तथादिव्यं कुण्डले कटकानिच ॥25॥
अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ॥26॥
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ॥27॥
अस्त्राण्यनेकरूपाणि तथाஉभेद्यं च दंशनम्।
अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्॥28॥
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्।
हिमवान् वाहनं सिंहं रत्नानि विविधानिच ॥29॥
ददावशून्यं सुरया पानपात्रं दनाधिपः।
शेषश्च सर्व नागेशो महामणि विभूषितम् ॥30॥
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ॥31॥
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु।
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ॥32॥
अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ॥33॥
चचाल वसुधा चेलुः सकलाश्च महीधराः।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥34॥
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यम् अमरारयः ॥35॥
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥36॥
अभ्यधावत तं शब्दम् अशेषैरसुरैर्वृतः।
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा ॥37॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥38॥
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ॥39॥
शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥40॥
युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः।
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ॥41॥
अयुध्यतायुतानां च सहस्रेण महाहनुः।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥42॥
अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे।
गजवाजि सहस्रौघै रनेकैः परिवारितः ॥43॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्योஉयुतानां च पञ्चाशद्भिरथायुतैः ॥44॥
युयुधे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥45॥
युयुधुः संयुगे देव्या सह तत्र महासुराः।
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥46॥
हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ॥47॥
युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः।
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥48॥
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥49॥
लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥50॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।
सोஉपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥51॥
चचारासुर सैन्येषु वनेष्विव हुताशनः।
निःश्वासान् मुमुचेयांश्च युध्यमानारणेஉम्बिका॥52॥
त एव सध्यसम्भूता गणाः शतसहस्रशः।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥53॥
नाशयन्तोஉअसुरगणान् देवीशक्त्युपबृंहिताः।
अवादयन्ता पटहान् गणाः शङां स्तथापरे ॥54॥
मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे।
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥55॥
खड्गादिभिश्च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥56॥
असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्।
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे ॥57॥
विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥58॥
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ॥59॥
शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः।
केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ॥60॥
शिरांसि पेतुरन्येषाम् अन्ये मध्ये विदारिताः।
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ॥61॥
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः।
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥62॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ॥63॥
कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ॥64॥
पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥65॥
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥66॥
क्षणेन तन्महासैन्यमसुराणां तथाஉम्बिका।
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ॥67॥
सच सिंहो महानादमुत्सृजन् धुतकेसरः।
शरीरेभ्योஉमरारीणामसूनिव विचिन्वति ॥68॥
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥69॥
जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोஉध्यायः॥
आहुति
ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।
महिषासुरवधो नाम तृतीयोஉध्यायः ॥
ध्यानं
ॐ उद्यद्भानुसहस्रकान्तिम् अरुणक्षौमां शिरोमालिकां
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देஉरविन्दस्थिताम् ॥
ऋषिरुवाच ॥1॥
निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः।
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥2॥
स देवीं शरवर्षेण ववर्ष समरेஉसुरः।
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ॥3॥
तस्य छित्वा ततो देवी लीलयैव शरोत्करान्।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥4॥
चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्।
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥5॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
अभ्यधावत तां देवीं खड्गचर्मधरोஉसुरः ॥6॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।
आजघान भुजे सव्ये देवीम् अव्यतिवेगवान् ॥6॥
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन।
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥8॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥9॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत।
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥10॥
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥11॥
सोஉपि शक्तिंमुमोचाथ देव्यास्ताम् अम्बिका द्रुतम्।
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥12॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥13॥
ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥14॥
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ
युयुधातेஉतिसंरब्धौ प्रहारै अतिदारुणैः ॥15॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥16॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।
दन्त मुष्टितलैश्चैव करालश्च निपातितः ॥17॥
देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्।
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥18॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥19॥
बिडालस्यासिना कायात् पातयामास वै शिरः।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥20॥
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः।
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥21॥
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ॥22॥
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।
निः श्वासपवनेनान्यान् पातयामास भूतले॥23॥
निपात्य प्रमथानीकमभ्यधावत सोஉसुरः
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोஉम्भिका ॥24॥
सोஉपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥25॥
वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥26॥
धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः।
श्वासानिलास्ताः शतशो निपेतुर्नभसोஉचलाः ॥27॥
इतिक्रोधसमाध्मातमापतन्तं महासुरम्।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाஉकरोत् ॥28॥
सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्।
तत्याजमाहिषं रूपं सोஉपि बद्धो महामृधे ॥29॥
ततः सिंहोஉभवत्सध्यो यावत्तस्याम्बिका शिरः।
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥30॥
तत एवाशु पुरुषं देवी चिच्छेद सायकैः।
तं खड्गचर्मणा सार्धं ततः सोஉ भून्महा गजः ॥31॥
करेण च महासिंहं तं चकर्ष जगर्जच ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥32॥
ततो महासुरो भूयो माहिषं वपुरास्थितः।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥33॥
ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥34॥
ननर्द चासुरः सोஉपि बलवीर्यमदोद्धतः।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् ॥35॥
सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥36॥
देव्युउवाच॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।
मयात्वयि हतेஉत्रैव गर्जिष्यन्त्याशु देवताः ॥37॥
ऋषिरुवाच॥
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्।
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ॥38॥
ततः सोஉपि पदाक्रान्तस्तया निजमुखात्ततः।
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥40॥
अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥41॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥42॥
तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः।
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥43॥
॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोஉध्यायं समाप्तम् ॥
आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥
शक्रादिस्तुतिर्नाम चतुर्धोஉध्यायः ॥
ध्यानं
कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां
शङ्ख चक्र कृपाणं त्रिशिख मपि करैर् उद्वहन्तीं त्रिन्त्राम् ।
सिंह स्कन्दाधिरूढां त्रिभुवन मखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धि कामैः ॥
ऋषिरुवाच ॥1॥
शक्रादयः सुरगणा निहतेஉतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।
सा चण्डिकाஉखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥4॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्था सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥
किं वर्णयाम तवरूप मचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवात्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥
हेतुः समस्तजगतां त्रिगुणापि दोषैः
न ज्ञायसे हरिहरादिभिरव्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूतं
अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृ गणस्य च तृप्ति हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥
या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै
र्विद्याஉसि सा भगवती परमा हि देवि ॥9॥
शब्दात्मिका सुविमलर्ग्यजुषां निधानं
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवी त्रयी भगवती भवभावनाय
वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥
मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गाஉसि दुर्गभवसागरसनौरसङ्गा ।
श्रीः कैट भारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ॥11॥
ईषत्सहासममलं परिपूर्ण चन्द्र
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥12॥
दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन । ॥13॥
देविप्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेतत्
न्नीतं बलं सुविपुलं महिषासुरस्य ॥14॥
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः ।
धन्यास्तएव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥15॥
धर्म्याणि देवि सकलानि सदैव कर्मानि
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा
ल्लोकत्रयेஉपि फलदा ननु देवि तेन ॥16॥
दुर्गे स्मृता हरसि भीति मशेश जन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥17॥
एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥18॥
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोஉपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहि तेஉषुसाध्वी ॥19॥
खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः
शूलाग्रकान्तिनिवहेन दृशोஉसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड
योग्याननं तव विलोक यतां तदेतत् ॥20॥
दुर्वृत्त वृत्त शमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥21॥
केनोपमा भवतु तेஉस्य पराक्रमस्य
रूपं च शतृभय कार्यतिहारि कुत्र ।
चित्तेकृपा समरनिष्टुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेஉपि ॥22॥
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेஉपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तं
अस्माकमुन्मदसुरारिभवं नमस्ते ॥23॥
शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥24॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी ॥25॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ।
यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ॥26॥
खड्गशूलगदादीनि यानि चास्त्राणि तेஉम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥27॥
ऋषिरुवाच ॥28॥
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ॥29॥
भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। ॥30॥
देव्युवाच ॥31॥
व्रियतां त्रिदशाः सर्वे यदस्मत्तोஉभिवाञ्छितम् ॥32॥
देवा ऊचु ॥33॥
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।
यदयं निहतः शत्रु रस्माकं महिषासुरः ॥34॥
यदिचापि वरो देय स्त्वयाஉस्माकं महेश्वरि ।
संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः॥35॥
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।
तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ॥36॥
वृद्दयेஉ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ॥37॥
ऋषिरुवाच ॥38॥
इति प्रसादिता देवैर्जगतोஉर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥39॥
इत्येतत्कथितं भूप सम्भूता सा यथापुरा ।
देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ॥40॥
पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ॥41॥
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते
ह्रीम् ॐ ॥42॥
॥ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोஉध्यायः समाप्तम् ॥
आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥
देव्या दूत संवादो नाम पञ्चमो ध्यायः ॥
ध्यानं
घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां
गौरी देह समुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥
॥ऋषिरुवाच॥ ॥ 1 ॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥
तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं
कौबेरमथ याम्यं चक्रान्ते वरुणस्य च
तावेव पवनर्द्धिஉं च चक्रतुर्वह्नि कर्मच
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥
तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥
इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥
देवा ऊचुः
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥
रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥
अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥
यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12
यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥
यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥
यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥15॥
यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥16॥
यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥17॥
यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥18॥
यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥19॥
यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥20॥
यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥21॥
यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥22॥
यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥23॥
यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥24॥
यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥25॥
यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥26॥
यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥27॥
यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥28॥
यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥29॥
यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥30॥
यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥31॥
यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥32॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥33॥
चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥34॥
स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेन्द्रेण दिनेषुसेविता।
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहन्तु चापदः ॥35॥
या साम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते।
याच स्मता तत्क्षण मेव हन्ति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥36॥
ऋषिरुवाच॥
एवं स्तवाभि युक्तानां देवानां तत्र पार्वती।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥37॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेஉत्र का
शरीरकोशतश्चास्याः समुद्भूताஉ ब्रवीच्छिवा ॥38॥
स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥39॥
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥40॥
तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥41॥
ततोஉम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ॥42॥
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा।
काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ॥43॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥44॥
स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा।
सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ॥45॥
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो।
त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ॥46॥
ऐरावतः समानीतो गजरत्नं पुनर्दरात्।
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ॥47॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेஉङ्गणे।
रत्नभूत मिहानीतं यदासीद्वेधसोஉद्भुतं ॥48॥
निधिरेष महा पद्मः समानीतो धनेश्वरात्।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ॥49॥
छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥50॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता।
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ॥51॥
निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः।
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ॥52॥
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ॥53॥
ऋषिरुवाच।
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ॥54॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥55॥
सतत्र गत्वा यत्रास्ते शैलोद्दोशेஉतिशोभने।
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥56॥
दूत उवाच॥
देवि दैत्येश्वरः शुम्भस्त्रेलोक्ये परमेश्वरः।
दूतोஉहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ॥57॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ॥58॥
ममत्रैलोक्य मखिलं ममदेवा वशानुगाः।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥59॥
त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ॥60॥
क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः।
उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितं ॥61॥
यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥62॥
स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ॥63॥
मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्।
भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ॥64॥
परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्।
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ॥65॥
ऋषिरुवाच॥
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥66॥
देव्युवाच॥
सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥67॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्।
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ॥68॥
योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति।
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ॥69॥
तदागच्छतु शुम्भोஉत्र निशुम्भो वा महासुरः।
मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघु ॥70॥
दूत उवाच॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ॥71॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।
किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ॥72॥
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥73॥
सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः।
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि॥74॥
देव्युवाच।
एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्।
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ॥75॥
सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः।
तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ॥76॥
॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तम् ॥
आहुति
क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥