Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति षष्ठॊ‌உध्यायः

शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥

ध्यानं
नगाधीश्वर विष्त्रां फणि फणोत्त्ंसोरु रत्नावली
भास्वद् देह लतां निभौ नेत्रयोद्भासिताम् ।
माला कुम्भ कपाल नीरज करां चन्द्रा अर्ध चूढाम्बरां
सर्वेश्वर भैरवाङ्ग निलयां पद्मावतीचिन्तये ॥

ऋषिरुवाच ॥1॥

इत्याकर्ण्य वचो देव्याः स दूतो‌உमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ 2 ॥

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥3॥

हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः।
तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ॥4॥

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठते‌உपरः।
स हन्तव्यो‌உमरोवापि यक्षो गन्धर्व एव वा ॥5॥

ऋषिरुवाच ॥6॥

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः।
वृतः षष्ट्या सहस्राणाम् असुराणान्द्रुतंयमौ ॥6॥

न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां।
जगादोच्चैः प्रयाहीति मूलं शुम्बनिशुम्भयोः ॥8॥

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥9॥

देव्युवाच ॥10॥

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥11॥

ऋषिरुवाच ॥12॥

इत्युक्तः सो‌உभ्यधावत्ताम् असुरो धूम्रलोचनः।
हूङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥13॥

अथ क्रुद्धं महासैन्यम् असुराणां तथाम्बिका।
ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥14॥

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्।
पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ॥15॥

कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्।
आक्रान्त्या चाधरेण्यान् जघान स महासुरान् ॥16॥

केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी।
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥17॥

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे।
पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ॥18॥

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥19॥

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्।
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः ॥20॥

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥21॥

हेचण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥22॥

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि।
तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ॥23॥

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते।
शीघ्रमागम्यतां बद्वा गृहीत्वातामथाम्बिकाम् ॥24॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति सप्तमॊ‌உध्यायः

चण्डमुण्ड वधो नाम सप्तमोध्यायः ॥

ध्यानं
ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलाङ्गीं।
न्यस्तैकाङ्घ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां।
मातङ्गीं शङ्ख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां।

ऋषिरुवाच।

आज्ञप्तास्ते ततोदैत्याश्चण्डमुण्डपुरोगमाः।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥1॥

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।
सिंहस्योपरि शैलेन्द्रशृङ्गे महतिकाञ्चने ॥2॥

तेदृष्ट्वातांसमादातुमुद्यमं ञ्चक्रुरुद्यताः
आकृष्टचापासिधरास्तथा‌உन्ये तत्समीपगाः ॥3॥

ततः कोपं चकारोच्चैरम्भिका तानरीन्प्रति।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥4॥

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्।
काली कराल वदना विनिष्क्रान्तासिपाशिनी ॥5॥

विचित्रखट्वाङ्गधरा नरमालाविभूषणा।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥6॥

अतिविस्तारवदना जिह्वाललनभीषणा।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥6॥

सा वेगेनाभिपतिता घूतयन्ती महासुरान्।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥8॥

पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान्।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥9॥

तथैव योधं तुरगै रथं सारथिना सह।
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ॥10॥

एकं जग्राह केशेषु ग्रीवायामथ चापरं।
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ॥11॥

तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥12॥

बलिनां तद्बलं सर्वमसुराणां दुरात्मनां
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥13॥

असिना निहताः केचित्केचित्खट्वाङ्गताडिताः।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥14॥

क्षणेन तद्भलं सर्व मसुराणां निपातितं।
दृष्ट्वा चण्डो‌உभिदुद्राव तां कालीमतिभीषणां ॥15॥

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥16॥

तानिचक्राण्यनेकानि विशमानानि तन्मुखम्।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ॥17॥

ततो जहासातिरुषा भीमं भैरवनादिनी।
काली करालवदना दुर्दर्शशनोज्ज्वला ॥18॥

उत्थाय च महासिंहं देवी चण्डमधावत।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥19॥

अथ मुण्डो‌உभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्।
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ॥20॥

हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्।
मुण्डञ्च सुमहावीर्यं दिशो भेजे भयातुरम् ॥21॥

शिरश्चण्डस्य काली च गृहीत्वा मुण्ड मेव च।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥22॥

मया तवा त्रोपहृतौ चण्डमुण्डौ महापशू।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं चहनिष्यसि ॥23॥

ऋषिरुवाच॥

तावानीतौ ततो दृष्ट्वा चण्ड मुण्डौ महासुरौ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥24॥

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥25॥

॥ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये चण्डमुण्ड वधो नाम सप्तमोध्याय समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुण्डा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति अष्टमॊ‌உध्यायः

रक्तबीजवधो नाम अष्टमोध्याय ॥

ध्यानं
अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥

ऋषिरुवाच ॥1॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥

ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥3॥

अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥4॥

कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥5॥

कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥6॥

इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥

आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥8॥

ततःसिंहो महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥9॥

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥

तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥11॥

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥13॥

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥14॥

हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥15॥

महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ॥16॥

कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥17॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ॥18॥

यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥19॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥20॥

वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥21॥

ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ॥22॥

ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥

सा चाह धूम्रजटिलम् ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥24॥

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥25॥

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥

बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥27॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोके‌உस्मिंस्ततः सा ख्याति मागता ॥28॥

ते‌உपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥29॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥30॥

सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥31॥

तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ॥32॥

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥33॥

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥34॥

ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥35॥

तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥36॥

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ॥37॥

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥38॥

इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥39॥

पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥40॥

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥41॥

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥42॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥43॥

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥44॥

ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥

पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥46॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥47॥

वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥48॥

शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥49॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥50॥

तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासञ्चतशो‌உसुराः ॥51॥

तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥

तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥53॥

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥54॥

भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥55॥

भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥56॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततो‌உसावाजघानाथ गदया तत्र चण्डिकां ॥57॥

न चास्या वेदनां चक्रे गदापातो‌உल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥58॥

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता ये‌உस्या रक्तपातान्महासुराः ॥59॥

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥60॥

देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ॥61॥

स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥

ततस्ते हर्ष मतुलम् अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ॥63॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥

आहुति
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति नवमॊ‌உध्यायः

निशुम्भवधोनाम नवमोध्यायः ॥

ध्यानं
ॐ बन्धूक काञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ।
बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां-
अर्धाम्बिकेशमनिशं वपुराश्रयामि ॥

राजौवाच॥1॥

विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ॥ 2॥

भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥3॥

ऋषिरुवाच ॥4॥

चकार कोपमतुलं रक्तबीजे निपातिते।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥5॥

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।
अभ्यदावन्निशुम्बो‌உथ मुख्ययासुर सेनया ॥6॥

तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥7॥

आजगाम महावीर्यः शुम्भो‌உपि स्वबलैर्वृतः।
निहन्तुं चण्डिकां कोपात्कृत्वा युद्दं तु मातृभिः ॥8॥

ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥9॥

चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः।
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥10॥

निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्॥11॥

ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्।
शुम्भस्याशु चिच्छेद चर्म चाप्यष्ट चन्द्रकम् ॥12॥

छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सो‌உसुरः।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥13॥

कोपाध्मातो निशुम्भो‌உथ शूलं जग्राह दानवः।
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्॥14॥

आविद्ध्याथ गदां सो‌உपि चिक्षेप चण्डिकां प्रति।
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता॥15॥

ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवं।
आहत्य देवी बाणौघैरपातयत भूतले॥16॥

तस्मिन्नि पतिते भूमौ निशुम्भे भीमविक्रमे।
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम्॥17॥

स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः।
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः॥18॥

तमायान्तं समालोक्य देवी शङ्खमवादयत्।
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्॥19॥

पूरयामास ककुभो निजघण्टा स्वनेन च।
समस्तदैत्यसैन्यानां तेजोवधविधायिना॥20॥

ततः सिंहो महानादै स्त्याजितेभमहामदैः।
पुरयामास गगनं गां तथैव दिशो दश॥21॥

ततः काली समुत्पत्य गगनं क्ष्मामताडयत्।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः॥22॥

अट्टाट्टहासमशिवं शिवदूती चकार ह।
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ॥23॥

दुरात्मं स्तिष्ट तिष्ठेति व्याज हाराम्बिका यदा।
तदा जयेत्यभिहितं देवैराकाश संस्थितैः॥24॥

शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया॥25॥

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्।
निर्घातनिःस्वनो घोरो जितवानवनीपते॥26॥

शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्।
चिच्छेद स्वशरैरुग्रैः शतशो‌உथ सहस्रशः॥27॥

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्।
स तदाभि हतो भूमौ मूर्छितो निपपात ह॥28॥

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः।
आजघान शरैर्देवीं कालीं केसरिणं तथा॥29॥

पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः।
चक्रायुधेन दितिजश्चादयामास चण्डिकाम्॥30॥

ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी।
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्॥31॥

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्।
अभ्यधावत वै हन्तुं दैत्य सेनासमावृतः॥32॥

तस्यापतत एवाशु गदां चिच्छेद चण्डिका।
खड्गेन शितधारेण स च शूलं समाददे॥33॥

शूलहस्तं समायान्तं निशुम्भममरार्दनम्।
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका॥34॥

खिन्नस्य तस्य शूलेन हृदयान्निःसृतो‌உपरः।
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्॥35॥

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः।
शिरश्चिच्छेद खड्गेन ततो‌உसावपतद्भुवि॥36॥

ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्।
असुरां स्तांस्तथा काली शिवदूती तथापरान्॥37॥

कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः॥38॥

माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे।
वाराहीतुण्डघातेन केचिच्चूर्णी कृता भुवि॥39॥

खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः।
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे॥40॥

केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्।
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः॥41॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये निशुम्भवधोनाम नवमोध्याय समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति दशमॊ‌உध्यायः

शुम्भोवधो नाम दशमो‌உध्यायः ॥

ऋषिरुवाच॥1॥

निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं।
हन्यमानं बलं चैव शुम्बः कृद्धो‌உब्रवीद्वचः ॥ 2 ॥

बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह।
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ॥3॥

देव्युवाच ॥4॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥5॥

ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥6॥

देव्युवाच ॥6॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता।
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ॥8॥

ऋषिरुवाच ॥9॥

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानाम् असुराणां च दारुणम् ॥10॥

शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः।
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ॥11॥

दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका।
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥12॥

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी।
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः॥13॥

ततः शरशतैर्देवीम् आच्चादयत सो‌உसुरः।
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः॥14॥

चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे।
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्॥15॥

ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्।
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः॥16॥

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्॥17॥

हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका।
जग्राह मुद्गरं घोरम् अम्बिकानिधनोद्यतः॥18॥

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः।
तथापि सो‌உभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्॥19॥

स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः।
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्॥20॥

तलप्रहाराभिहतो निपपात महीतले।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥21॥

उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः।
तत्रापि सा निराधारा युयुधे तेन चण्डिका॥22॥

नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्।
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्॥23॥

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले॥24॥

सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया॥25॥

तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्।
जगत्यां पातयामास भित्वा शूलेन वक्षसि॥26॥

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः।
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ॥27॥

ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥28॥

उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥29॥

ततो देव गणाः सर्वे हर्ष निर्भरमानसाः।
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः॥30॥

अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः।
ववुः पुण्यास्तथा वाताः सुप्रभो‌உ भूद्धिवाकरः॥31॥

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः॥32॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति ऎकादशॊ‌உध्यायः

नारायणीस्तुतिर्नाम एकादशो‌உध्यायः ॥

ध्यानं
ॐ बालार्कविद्युतिम् इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥

ऋषिरुवाच॥1॥

देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्ज विकासिताशाः ॥ 2 ॥

देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतो‌உभिलस्य।
प्रसीदविश्वेश्वरि पाहिविश्वं
त्वमीश्वरी देवि चराचरस्य ॥3॥

आधार भूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि
अपां स्वरूप स्थितया त्वयैत
दाप्यायते कृत्स्नमलङ्घ्य वीर्ये ॥4॥

त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देविसमस्त मेतत्-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥5॥

विद्याः समस्तास्तव देवि भेदाः।
स्त्रियः समस्ताः सकला जगत्सु।
त्वयैकया पूरितमम्बयैतत्
काते स्तुतिः स्तव्यपरापरोक्तिः ॥6॥

सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥7॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते।
स्वर्गापवर्गदे देवि नारायणि नमो‌உस्तुते ॥8॥

कलाकाष्ठादिरूपेण परिणाम प्रदायिनि।
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ॥9॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्रयम्बके गौरी नारायणि नमो‌உस्तुते ॥10॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमो‌உस्तुते ॥11॥

शरणागत दीनार्त परित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमो‌உस्तुते ॥12॥

हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी।
कौशाम्भः क्षरिके देवि नारायणि नमो‌உस्तुते ॥13॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि।
माहेश्वरी स्वरूपेण नारायणि नमो‌உस्तुते ॥14॥

मयूर कुक्कुटवृते महाशक्तिधरे‌உनघे।
कौमारीरूपसंस्थाने नारायणि नमोस्तुते॥15॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे।
प्रसीद वैष्णवीरूपेनारायणि नमो‌உस्तुते॥16॥

गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुन्धरे।
वराहरूपिणि शिवे नारायणि नमोस्तुते॥17॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे।
त्रैलोक्यत्राणसहिते नारायणि नमो‌உस्तुते॥18॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत्रप्राणहारे चैन्द्रि नारायणि नमो‌உस्तुते ॥19॥

शिवदूतीस्वरूपेण हतदैत्य महाबले।
घोररूपे महारावे नारायणि नमो‌உस्तुते॥20॥

दंष्त्राकराल वदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमो‌உस्तुते॥21॥

लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महामाये नारायणि नमो‌உस्तुते॥22॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमो‌உस्तुते॥23॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमो‌உस्तुते ॥24॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायिनि नमो‌உस्तुते ॥25॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।
त्रिशूलं पातु नो भीतिर्भद्रकालि नमो‌உस्तुते॥26॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥27॥

असुरासृग्वसापङ्कचर्चितस्ते करोज्वलः।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्॥28॥

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामा सकलानभीष्टान्
त्वामाश्रितानां न विपन्नराणां।
त्वामाश्रिता श्रयतां प्रयान्ति॥29॥

एतत्कृतं यत्कदनं त्वयाद्य
दर्मद्विषां देवि महासुराणाम्।
रूपैरनेकैर्भहुधात्ममूर्तिं
कृत्वाम्भिके तत्प्रकरोति कान्या॥30॥

विद्यासु शास्त्रेषु विवेक दीपे
ष्वाद्येषु वाक्येषु च का त्वदन्या
ममत्वगर्ते‌உति महान्धकारे
विभ्रामयत्येतदतीव विश्वम्॥31॥

रक्षांसि यत्रो ग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र।
दवानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्॥32॥

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवन्ध्या भवती भवन्ति
विश्वाश्रया येत्वयि भक्तिनम्राः॥33॥

देवि प्रसीद परिपालय नो‌உरि
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः।
पापानि सर्व जगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥34॥

प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥35॥

देव्युवाच॥36॥

वरदाहं सुरगणा परं यन्मनसेच्चथ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥37॥

देवा ऊचुः॥38॥

सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्॥39॥

देव्युवाच॥40॥

वैवस्वते‌உन्तरे प्राप्ते अष्टाविंशतिमे युगे।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥41॥

नन्दगोपगृहे जाता यशोदागर्भ सम्भवा।
ततस्तौनाशयिष्यामि विन्ध्याचलनिवासिनी॥42॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान् ॥43॥

भक्ष्य यन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्तदन्ता भविष्यन्ति दाडिमीकुसुमोपमाः॥44॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥45॥

भूयश्च शतवार्षिक्याम् अनावृष्ट्यामनम्भसि।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥46॥

ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तियिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥47॥

ततो‌உ हमखिलं लोकमात्मदेहसमुद्भवैः।
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः॥48॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥49॥

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति।
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले॥50॥

रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्।
तदा मां मुनयः सर्वे स्तोष्यन्त्यान म्रमूर्तयः॥51॥

भीमादेवीति विख्यातं तन्मे नाम भविष्यति।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति॥52॥

तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥53॥

भ्रामरीतिच मां लोका स्तदास्तोष्यन्ति सर्वतः।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति॥54॥

तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥55॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशो‌உध्यायः समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi, Sri Sri Chandi Sanskrit

दुर्गा सप्तशति द्वादशॊ‌உध्यायः

फलश्रुतिर्नाम द्वादशो‌உध्यायः ॥

ध्यानं
विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां।
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे

देव्युवाच॥1॥

एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः।
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ॥2॥

मधुकैटभनाशं च महिषासुरघातनम्।
कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ॥3॥

अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥4॥

न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः।
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ॥5॥

शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः।
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति ॥6॥

तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥7॥

उप सर्गान शेषांस्तु महामारी समुद्भवान्।
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ॥8॥

यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ॥9॥

बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे।
सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेवच ॥10॥

जानताजानता वापि बलि पूजां तथा कृताम्।
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ॥11॥

शरत्काले महापूजा क्रियते याच वार्षिकी।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥12॥

सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥13॥

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥14॥

रिपवः सङ्क्षयं यान्ति कल्याणां चोपपध्यते।
नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्॥15॥

शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने।
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥16॥

उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥17॥

बालग्रहाभिभूतानं बालानां शान्तिकारकम्।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्॥18॥

दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूतपिशाचानां पठनादेव नाशनम्॥19॥

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥20॥

विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥21॥

प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥22॥

रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम।
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्॥23॥

तस्मिञ्छृते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥24॥

ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः॥25॥

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः।
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः॥26॥

राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बन्द गतो‌உपिवा।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥27॥

पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे।
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितो‌உपिवा॥28॥

स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्।
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा॥29॥

दूरादेव पलायन्ते स्मरतश्चरितं मम॥30॥

ऋषिरुवाच॥31॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा।
पश्यतां सर्व देवानां तत्रैवान्तरधीयत॥32॥

ते‌உपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा।
यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः॥33॥

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि
जगद्विध्वंसके तस्मिन् महोग्रे‌உतुल विक्रमे॥34॥

निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥35॥

एवं भगवती देवी सा नित्यापि पुनः पुनः।
सम्भूय कुरुते भूप जगतः परिपालनम्॥36॥

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥37॥

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर।
महादेव्या महाकाली महामारी स्वरूपया॥38॥

सैव काले महामारी सैव सृष्तिर्भवत्यजा।
स्थितिं करोति भूतानां सैव काले सनातनी॥39॥

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।
सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते॥40॥

स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां॥41॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशो‌உध्याय समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥

Sri Sri Chandi

दुर्गा सप्तशति त्रयॊदशॊ‌உध्यायः

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशो‌உध्यायः ॥

ध्यानं
ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ॥

ऋषिरुवाच ॥ 1 ॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ॥2॥

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥3॥

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥4॥

तामुपैहि महाराज शरणं परमेश्वरीं।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥5॥

मार्कण्डेय उवाच ॥6॥

इति तस्य वचः शृत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ॥7॥

निर्विण्णोतिममत्वेन राज्यापहरेणन च।
जगाम सद्यस्तपसे सच वैश्यो महामुने ॥8॥

सन्दर्शनार्थमम्भाया नlपुलिन मास्थितः।
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ॥9॥

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥10॥

निराहारौ यताहारौ तन्मनस्कौ समाहितौ।
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ॥11॥

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥12॥

देव्युवाचा॥13॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते॥14॥

मार्कण्डेय उवाच॥15॥

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्॥16॥

सो‌உपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम् ॥17॥

देव्युवाच॥18॥

स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥19॥

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः।
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति॥20॥

वैश्य वर्य त्वया यश्च वरो‌உस्मत्तो‌உभिवाञ्चितः।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥21॥

मार्कण्डेय उवाच

इति दत्वा तयोर्देवी यथाखिलषितं वरं।
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥22॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥23॥

इति दत्वा तयोर्देवी यथभिलषितं वरम्।
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता॥24॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥25॥

।क्लीम् ॐ।

॥ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तम् ॥

॥श्री सप्त शती देवीमहत्म्यम् समाप्तम् ॥
। ॐ तत् सत् ।

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा । हृदयाय नमः ।

ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ।

ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ।

ॐ स्ॐयानि यानिरूपाणि त्रैलोक्ये विचरन्तिते
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुम् ।

ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ।

ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते । करतल करपृष्टाभ्यां नमः ।
ॐ भूर्भुव स्सुवः इति दिग्विमिकः ।